शक्तिस्तुति:

सौम्या सुमनोनिलया संगमयित्री जनानाम् संपूज्यते सुवचोभि: सर्वशुक्ला सरस्वती ।। नीलाम् नीलाभवसनाम् नभःस्पृशयशोज्ज्वलाम् नीलाद्रिनिलयाम् नम्राम् नौमि नानारूपधराम्।। ताम् रक्तवर्णाम् पाटलपुष्पपूजिताम् मणिकुण्डलाभ्यामारक्तदुकूलवस्त्राम् महालक्ष्मीम् विष्णुप्रियाम् प्रणतास्मि नित्यम् धनधान्यापत्यविभवं सा दद्याज्जनेभ्यः । तां रक्तवर्णां पाटलपुष्पपूजितां मणिकुण्डलाभ्यामारक्तदुकूलवस्त्रां महालक्ष्मीं विष्णुप्रियां प्रणतास्मि नित्यं धनधान्यापत्यविभवं सा दद्याज्जनेभ्यः । मरकतमालाधरा मोहिनी मानसी हंसी विहरतु मन्मानसे मूढजनसंतारिणी। सस्यश्यामला हरिता चित्तापहारिणी अंबा अपक्वताम् मम मत्या: दूरीकरोतु सपदि ।। … Continue reading शक्तिस्तुति: